Home » Strotra Collection » Shri Ganapati Namashtakam Stotram~श्रीगणपती नामाष्टक स्तोत्रम्
||

Shri Ganapati Namashtakam Stotram~श्रीगणपती नामाष्टक स्तोत्रम्

||

श्रीगणपती नामाष्टक स्तोत्रम्

 

 विष्णुरुवाच


गणेशमेकदन्तं च हेरम्बं विघ्ननायकम् I
लम्बोदरं शूर्पकर्णं गजवक्त्रं गुहाग्रजम् I


नामाष्टार्थ च पुत्रस्य श्रुणु मातर्हरप्रिये I
स्तोत्राणां सारभूतं च सर्वविघ्नहरं परम् II १ II


ज्ञानार्थवाचको गश्च णश्च निर्वाणवाचकः I
तयोरीशं परं ब्रह्म गणेशं प्रणमाम्यहम् I


एकशब्दः प्रधानार्थो दन्तश्च बलवाचकः I
बलं प्रधानं सर्वस्मादेकदन्तं नमाम्यहम् II २ II


दिनार्थवाचको हेश्च रम्बः पालकवाचकः I
परिपालकं दिनानां हेरम्बं प्रणमाम्यहम् I


विपत्तिवाचको विघ्नो नायकः खण्डनार्थकः I
विपत्खण्डनकारकं नमामि विघ्ननायकम् II ३ II


विष्णुदत्तैश्च नैवेद्यैर्यस्य लम्बोदरं पुरा I
पित्रा दतैश्च विविधैर्वन्दे लम्बोदरं च तम् I


शूर्पाकारौ च यत्कर्णौ विघ्नवारणकारणौ I
सम्पद्दौ ज्ञानरुपौ च शूर्पकर्णं नमाम्यहम् II ४ II


विष्णुप्रसादपुष्पं च यन्मूर्ध्नि मुनिदत्तकम् I
तद् गजेन्द्रवक्त्रयुतं गजवक्त्रं नमाम्यहम् I


गुहस्याग्रे च जातोSयमाविर्भूतो हरालये I
वन्दे गुहाग्रजं देवं सर्वदेवाग्रपूजितम् II ५ II


एतन्नामाष्टकं दुर्गे नामभिः संयुतं परम् I
पुत्रस्य पश्य वेदे च तदा कोपं तथा कुरु I


एतन्नामाष्टकं स्तोत्रं नानार्थसंयुतं शुभम् I
त्रिसंध्यं यः पठेन्नित्यं स सुखी सर्वतो जयी II ६ II


ततो विघ्नाः पलायन्ते वैनतेयाद् यथोरगाः I
गणेश्वरप्रसादेन महाज्ञानी भवेद् ध्रुवम् I


पुत्रार्थी लभते पुत्रं भार्यार्थी विपुलां स्त्रियम् I
महाजडः कवीन्द्रश्च विद्दावांश्च भवेद् ध्रुवम् II ७ II


II इति श्रीब्रह्मवैवर्ते गणपतीखण्डे श्रीविष्णुर्प्रोक्तं गणपति नामाष्टकं संपूर्णं II

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com