Home » Strotra Collection » Vasudev Krut ShriKrishna Stotra~वसुदेवकृत श्रीकृष्ण स्तोत्र
||

Vasudev Krut ShriKrishna Stotra~वसुदेवकृत श्रीकृष्ण स्तोत्र

||

 

Vasudev Krut ShriKrishna Stotra~वसुदेवकृत श्रीकृष्ण स्तोत्र

 श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् ।
ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥


स्वेच्छामयं सर्वरुपं स्वेच्छारुपधरं परम् ।
निर्लिप्तं परमं ब्रह्म बीजरुपं सनातनम् ॥ २ ॥


स्थूलात् स्थूलतरं व्याप्तमतिसूक्ष्ममदर्शनम् ।
स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥


शरीरवन्तं सगुणमशरीरं गुणोत्करम् ।
प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥


सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् ।
सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभो ॥ ५ ॥


अनन्तः स्तवनेsशक्तोsशक्ता देवी सरस्वती ।
यं स्तोतुमसमर्थश्र्च पञ्चवक्त्रः षडाननः ॥ ६ ॥
चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा ।
गणेशो न समर्थश्र्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥


ऋषयो देवताश्र्चैव मुनीन्द्रमनुमानवाः ।
स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवन्ति ते ॥ ८ ॥


श्रुतयः स्तवनेsशक्ताः किं स्तुवन्ति विपश्र्चितः ।
विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥


वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।
भक्तिदास्यमवाप्नोति श्रीकृष्णचरणाम्बुजे ॥ १० ॥


विशिष्टपुत्रं लभते हरिदासं गुणान्वितम् ।
सङकटं निस्तरेत् तूर्णं शत्रुभीत्या प्रमुच्यते ॥ ११ ॥ ॥


इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे वसुदेवकृतं श्रीकृष्णस्तोत्रं संपूर्णम् ॥

 
Strotra Collection
Ringtones
Find More
Copyright © MyGuru.in. All Rights Reserved.
Site By rpgwebsolutions.com